-->

Type something and hit enter

Facebook Like Lightbox



Durga Navratri Mantra & Stuti

ॐ सर्व मंगल मांगल्ये शिवे सर्वार्थ साधिके ।
शरण्ये त्र्यंबके गौरी नारायणी नमोस्तुते ॥

***

नमो देव्यै महादेव्यै शिवायै सततं नमः ।
नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्म ताम् ॥

***

शरणागतदीनार्तपरित्राणपरायणे ।
सर्वस्यार्तिहरे देवि नारायणि नमोऽस्तु ते ॥

***

अन्नपूर्णे सदापूर्णे शंकरः प्राणवल्लभे ।
ज्ञान वैराग्य सिद्ध्यर्थं भिक्षां देहि च पार्वती ॥

***

Durga Gayatri Mantra

ॐ कात्यायन्यै च विद्महे, कन्यकुमार्यै धीमहि ।
तन्नो दुर्गा प्रचोदयत् ॥

***

Durgashtakshar Mantra

ॐ ह्रीं दुं दुर्गायै नमः ॥

***

Navarn Mantra नवार्ण मन्त्र

ॐ ऐं ह्रीं क्लीं चामुण्डायै विच्चे ।

***

Ma Saraswati Stuti

जय जय देवि चराचरसारे कुचयुगशोभित मुक्ताहारे ।
वीणापुस्तकरंजितहस्ते भगवति भारति देवि नमस्ते ॥

***

MahaLaxmi Stuti

नमस्तेस्तु महामाये श्रीपीठे सुरपूजिते ।
शङ्खचक्रगदाहस्ते महालक्ष्मि नमोऽस्तुते ॥

***

सर्वज्ञे सर्ववरदे सर्वदुष्ट भयंकरि ।
सर्वदुःख हरे देवि महालक्ष्मि नमोऽस्तुते ॥

***

सिद्धिबुद्धिप्रदे देवि भुक्तिमुक्ति प्रदायिनि ।
मन्त्रमूर्ते सदा देवि महालक्ष्मि नमोऽस्तुते ॥

***

ॐ महालक्ष्मी च विद्महे, विष्णुपत्नी च धीमहि ।
तन्नो लक्ष्ह्मीः प्रचोदयात् ॥

***

Devi Stuti

या देवी सर्वभूतेषु मातृरुपेण संस्थितः ।
या देवी सर्वभूतेषु शक्तिरुपेण संस्थितः ।
या देवी सर्वभूतेषु शान्तिरुपेण संस्थितः ।
नमस्तस्यैः नमस्तस्यैः नमस्तस्यैः नमो नमः ।

ॐ अम्बायै नमः ॥

***

सर्वे भवंतु सुखिनः सर्वे संतु निरामयाः ।
सर्वे भद्राणि पश्यंतु मा कश्चिद् दुःखभाग्भवेत् ॥


|| Jai Mata Di ||

Click to comment